|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.12. अध्यायः 012
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण भीष्मदुर्योधनादीनां श्राद्धदानाय विदुरमुखाद्युधिष्ठिरंप्रति द्रव्ययाचनम्॥ 1 ॥ तच्छ्रवणेन विमनायमाभीमे तद्भादज्ञेनार्जुनेन तम्प्रति द्रव्ययाचने भीमेन धृतराष्ट्रापनयानुस्मारणपूर्वकं तदनङ्गीकरणम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो रजन्यां व्युष्टायां धृतराष्ट्रोंऽबिकासुतः।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्॥ 16-12-1(97568)
स गत्वा राजवचनादुवाचाच्युतमीश्वरम्।
युधिष्ठि महातेजाः सर्वबुद्धिमतांवरः॥ 16-12-2(97569)
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम्॥ 16-12-3(97570)
स त्वां कुरुकुलश्रेष्ठ किञ्चिर्थमभीप्सति।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः॥ 16-12-4(97571)
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः।
यदि चाप्यनुजानीषे सैन्धवापशदस्य च॥ 16-12-5(97572)
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः।
हृष्टःक सम्पूजयामास गुडोकेशश्च पाण्डवः॥ 16-12-6(97573)
न च भीमो द्दढक्रोधस्तद्वचो जगृहे तदा।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्॥ 16-12-7(97574)
अभिप्रायं विदित्वा तु भीमतसेनस्य फल्गुनः।
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम्॥ 16-12-8(97575)
भीम राजा पिता वृद्धो वनवासाय दीक्षितः।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्॥ 16-12-9(97576)
भवता निर्जितं वित्तं दातुमिच्छति कौरवः।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि॥ 16-12-10(97577)
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते।
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम्॥ 16-12-11(97578)
योसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः।
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति॥ 16-12-12(97579)
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्।
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुजः॥ 16-12-13(97580)
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ॥ 16-12-14(97581)
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत्।
भीमसेनस्तु सक्रोधमुवाच विजयं तदा॥ 16-12-15(97582)
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन।
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च॥ 16-12-16(97583)
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः।
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति॥ 16-12-17(97584)
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः।
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः॥ 16-12-18(97585)
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः।
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः॥ 16-12-19(97586)
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम्॥ 16-12-20(97587)
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः।
कृष्णाजिनोपसंवीतो हृताभरणभूषणः।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्॥ 16-12-21(97588)
क्व तदा द्रोणभिष्मौ तौ सोमदत्तोपि वाऽभवत्।
यत्र द्वादश वर्षाणि वने वन्येन जीवथ।
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते॥ 16-12-22(97589)
किं ते तद्विस्मृतं पार्थक यदेष कुलपांसनः।
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत॥ 16-12-23(97590)
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः।
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन्॥ ॥ 16-12-24(97591)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-12-4 किञ्चिदर्थं किञ्चित्कार्यं कर्तुं त्वामभीप्सति द्रष्टुमिति शेषः॥ 7-12-8 किञ्चिदागम्य भीमं वचनमब्रवीदिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|